Laxman Ramanujdas

Laxman Ramanujdas

Share

08/05/2025

श्री रामानुज स्वामी को गङ्गाप्रवाह की साजीश

#स्वामिरामानुजसंस्कृताध्ययनकेन्द्रम्
#श्रीरामानुजस्वामी

#गङ्गाप्रवाह

#सनातनसंरक्षक

#वेदरक्षकरामानुज

#रामानुजकीगाथा

#धर्मकीरक्षा

#गुरुभक्तिरामानुज

#सनातनसंकल्प




















#स्वामीरामानुज

#संस्कृत reel

09/03/2025

भागः - 1
परमात्मनो मूर्तिसद्भावे प्रमाणश्रुतिगणव्याख्यानम्

हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।। (तैत्तिरीय संहिता)

अयं खल्वनुवाको भगवन्नारायणपरः । प्रागुदाहृतत्तैत्तिरीयाराण्यकषष्ठप्रश्ननारायणवाक्ये *हिरण्यगर्भ इत्यष्टौ* इत्यष्टानां मन्त्राणां भगवन्नारायणवैभव-प्रकरणे पठनीयतया अभिधानात् । अत्रापि *न तस्य प्रतिमा* अस्ति इत्यादिमन्त्रे भगवन्नारायणवैभवप्रमाणतयै *हिरण्यगर्भ इत्येष* इत्यनुवादात् प्रागुदाहृतविष्णुस्मृतिवचनेषु एतन्मन्त्राणाम् अर्चामूर्तिभगवन्नारायणहविर्निवेदने विनियोगाच्च। हिरण्यगर्भः = नारायणः, योगरूढो हि अयं शब्दो नारायणेऽपि । अत एव च सहस्रनामाध्याये *हिरण्यगर्भो भूगर्भः* इत्यत्र, *हिरण्यगर्भश्शत्रुघ्न्नः* इत्यत्र च स्थलद्वये पठितोऽयम् । *यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये* इति तदध्यायारम्भगतश्लोके वक्ष्यमाणतदध्यायगतभगवन्नाम्नां गौणानीत्यनेन यौगिकत्वं, विख्यातानीत्यनेन रूढत्वं च हि प्रतिपादितम्। हिरण्यस्य वैष्णवस्य परमपदस्य गर्भः गर्भभूतः, सर्वदैवाभिव्यक्तरूपेण तत्रवर्ती विष्णुः इति यावत् । यद्वा हिरण्यानि असङ्ख्येयकल्याणगुणाः गर्भे यस्य सः हिरण्यगर्भः, समस्तकल्याणगुणनिधिरिति यावत् । हितरमणीयमिति वैदिकनिरुक्तात्, सुवर्णवत् स्पृहणीयत्वाच्च हिरण्यशब्दो वैष्णवं परमं धाम, कल्याणगुणजातं चाचष्टे । अत एव हि वैष्णवं परमं धाम हिरण्यरूपत्वेनैवोच्यते श्रुतिषु। यथोक्तं मुण्डकोपनिषदि द्वितीयमुण्डके दशममन्त्रे - *हिरण्मये परे कोशे विरजं ब्रह्मनिष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिः तद्य आत्मविदो विदुः* इति । उक्तं च तैत्तिरीयारण्यके प्रथमप्रपाठके सप्तविंशानुवाके - *देवानां पूरयोध्या, तस्यां हिरण्मयः कोशः, स्वर्गो लोको ज्योतिषावृतः* इति । *विभ्राजमानां हरिणीं यशसा संपरीवृतां, पुरं हिरण्मयीं ब्रह्म विवेशापराजिता* इति च । अत्र हि भगवल्लोकपुर-कोशादीनां तेजोविशेषेण प्रकाशमानानां हिरण्यरूपत्वमेवाभिधीयते । अग्रे = सृष्टेः प्राक् महाप्रलयकालेऽपि; समवर्तत = सम्यगवर्तत, पदार्थान्तरवद्विलयमप्राप्यैव यथावस्थितस्वरूपस्वभव एवावर्तत इति यावत् । *सदेव सोम्येदमिदमग्र आसीत्* इत्यादिश्रुत्यन्तरानुरोधेन महाप्रलयकालेऽपि अविनाशितया अवस्थानं परब्रह्मणोऽसाधारणो धर्मः । भूतस्य = कृत्स्नस्य भूतजातस्य; एकः पतिः जातः = एकपतिभूतः ; आसीत् = अस्ति, छन्दसि लुललिटः इत्यनुशासनात् कालान्तरेऽपि लङ् । पतिं विश्वस्य आत्मेश्वरम् इति श्रुत्यन्तरानुरोधेन निखिलजगन्निरुपाधिकैकच्छत्राधिपत्यमपि तस्यैव असाधारणो धर्मः; सः = स एव परमात्मा; इमां पृथिवीं द्यामुत = भूलोकं द्युलोकं च दधार, धारयति, *तुजादीनां दीर्घोऽभ्यासश्*च इत्यनुशासनात् तुजादेः आकृतिगणत्वाच्च इह अभ्यासदीर्घः । लिटो लदर्थकत्वमप्युक्तानुशासनेन । *एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः* इत्यादिश्रुत्यन्तरानुरोधेन अयमपि परमात्मनोऽसाधारणो धर्मः । कस्मै देवाय = तापत्रयातुराणां सर्वेषाम् अन्ते परमजिज्ञास्यपरब्रह्मभूताय श्रीमन्नारायणाय देवाय, सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इति श्रुत्या अथातो ब्रह्मजिज्ञासा इति शारीरकसूत्रेण *आलोढ्य सर्वशास्त्राणि विचिन्त्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा* इत्यादिभिश्शास्त्रैश्च तापत्रयातुराणामन्ते परमजिज्ञास्यतया व्यवस्थितं वस्तु प-रब्रह्मभूतो नारायण एवेति प्रतिपाद्यते । अत एव च सहस्र-नामाध्याये *एको नैकस्सवः कः किम्* इति किंशब्दोऽपि भगवन्नामसु पठितः । जिज्ञासविषयत्वेन अस्य किंशब्दस्य सर्वनामसंज्ञत्वात् स्मायादेशः । अत एव च अयमनुवाको नारायणपर एव, न चतुर्मुखपर इति सिध्यति । चतुर्मुखपरस्य कशब्दस्य सर्वनामसंज्ञाविरहेण स्मायादेशासंभवेन कायेत्येव रूपापत्तेः । हविषा = अन्नादिरुपेण नैवेद्येन; विधेम = विशेषतः पोषयेम, नैवेद्येन निवेदनरूपेण उपचारेण परिचरेम इति यावत्। विध, विधान इति विधतेर्धातोः तौदादिकस्य विपूर्वकधाधातुना व्याख्यानात् । धाधातोः धारणपोषणार्थकत्वात् तृप्तिविशेषजनकक्रियारूपपोषणस्य इह विवक्षितत्वे परिचरणमेव पर्यवस्यति । यद्यपि परिचरणलक्षणपोषाणार्थकस्य विधतेः सकर्मकतया देवं परिचरेम इत्यादिवत् देवं विधेम इत्येव प्रयोगो न्याय्यः, न तु देवाय विधेम इति, तथापि कर्मण आधारत्वविवक्षया गण्डे प्रहृत्य इतिवत् कर्मणः संप्रदानतया धात्वर्थक्रियान्वयविवक्षायां चतुर्थ्यपि साधुरेव । अतोऽत्र देवार्था तृप्तिविशेषजनकक्रिया इत्यन्वयविवक्षया देवाय इति स्यादेव चतुर्थी । यद्वा नमस्कुर्मो नृसिंहाय इत्यादिष्विव देवाय विधेम इत्यत्रापि देवमनुकूलयितुम् इत्यर्थविवक्षायां क्रियार्थोपपदस्य कर्मणि स्थानिनः इत्यनुशासनेन चतुर्थी संभ-वति । अतो न दोष इति ।

- पण्डितपरिबृदैः पुरिशै-श्रीरङ्गाचार्यवर्यैरनुगृहीतम्

Want your place of worship to be the top-listed Place Of Worship in Chennai?
Click here to claim your Sponsored Listing.

Category

Culinary Team

Attire

Telephone

Address

Chennai